मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् १

संहिता

वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी ।
अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥

पदपाठः

वृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी ।
अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥

सायणभाष्यम्

सोमेषु सोमवत्सुयागेषु इन्द्रे सोमपानजनितोमदः वृष यजमानस्यकामानां वर्षकोभवति यद्वा सर्वजनाह्लादकस्य वर्षणस्य कर्ता भवति उक्था उक्थेनशस्त्रेण सचा सह श्लोकस्तोत्ररूपः शब्दोवृषाभवति सुतपाः अभिषुतस्य सोमस्य पाता ऋजीषी ऋजीषं गतरसमपि सोमं नपरित्यजन् मघवा धनवान् सचेन्द्रोनृभ्यःस्तुतीनांनेतृभ्यः उक्थैः स्तोत्रैः अर्चत्र्योर्चनीयोभवति द्युक्षोद्युलोकनिवासः गिरां स्तुतीनां राजेश्वरइन्द्रः अक्षितोतिरक्षिणरक्षश्चभवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७