मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् २

संहिता

ततु॑रिर्वी॒रो नर्यो॒ विचे॑ता॒ः श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः ।
वसु॒ः शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म् ॥

पदपाठः

ततु॑रिः । वी॒रः । नर्यः॑ । विऽचे॑ताः । श्रोता॑ । हव॑म् । गृ॒ण॒तः । उ॒र्विऽऊ॑तिः ।
वसुः॑ । शंसः॑ । न॒राम् । का॒रुऽधा॑याः । वा॒जी । स्तु॒तः । वि॒दथे॑ । दा॒ति॒ । वाज॑म् ॥

सायणभाष्यम्

वाजी अन्नवानिन्द्रः विदथे यज्ञे अस्माभिःस्तुतःसन् वाजमन्नंदाति अस्मभ्यंददाति कीदृशइन्द्रः ततुरिः शत्रूणांहिंसकः वीरोविक्रान्तः नर्योनरहितः विचेताः विविक्ताज्ञानः हवमस्मदीयंस्तोत्रं श्रोता गृणतः स्तुवतः स्तोतृजनस्य उर्व्यूतिः विस्तृतरक्षः वसुर्वासयिता नरां नॄणां स्तोतृजनानां शंसः शंसनीयः कारुधायाः कारूणांस्तोतॄणांधारयिता एवंभूतइन्द्रोवाजंददातीतिसंबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७