मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् ४

संहिता

शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः ।
व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मानः॑ सुदामन् ॥

पदपाठः

शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः ।
व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥

सायणभाष्यम्

हेपुरुशाक बहुकर्मन्निन्द्र शचीवतः प्रज्ञावतस्तेत्वदीयाः शाकाः शक्तयःकर्माणिवा सर्वतः संचरन्तीतिशेषः तत्रदृष्टान्तः—गवामिव धे- नूनांस्रुतयोमार्गाः यथा संचरणीः सर्वत्रसंचारिणोभवन्तितद्वत् अपिच वत्सानां न तंतयः तंतिर्नामदीर्घप्रसारितारज्जुः तत्रनियतैर्विशाख- दामभिः बहवोवत्साबध्यन्ते यथा तन्तयोबहुनांवत्सानांबन्धकाः हेसुदामन् शोभनदामेन्द्र तथा तेत्वदीयाः शाकाः दामन्वन्तः बंधनवन्तः बहूनांशत्रूणांबंधकाः अदामानः स्वयमन्यैरबद्धाः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७