मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् ६

संहिता

वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः ।
तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वा॑ः ॥

पदपाठः

वि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः ।
तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥

सायणभाष्यम्

हेइन्द्र त्वत् त्वत्सकाशात् उक्थेभिरुक्थैःशस्त्रैः यज्ञैर्हविर्भिश्च स्तोतारः कामान् आत्मनोव्यनयन्त विविधंप्रापयन्ति तत्रदृष्टान्तः-- पर्वतस्याद्रेः पृष्ठादुपरिभागात् आपोन अपः उदकानियथातद्वत् अपिचहेगिर्वाहः गीर्भिःस्तुतिरूपाभिर्वाग्भिः वहनीयेन्द्र त्वा त्वां वाज- यन्तोबलिनंकुर्वन्तः यद्वा वाजमन्नमिच्छन्तः भरद्वाजःस्तोतारःआभिः पूर्वोक्ताभिःसुष्टुतिभिःशोभनाभिः स्तुतिभिः जग्मुः प्रापुः क्षिप्रगम- नेदृष्टान्तः—अश्ववाहाः आजिंन संग्रामंयथाशीघ्रंप्रापुः तद्वत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८