मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् ७

संहिता

न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति ।
वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥

पदपाठः

न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति ।
वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥

सायणभाष्यम्

शरदः संवत्सराः यमिन्द्रं नजरन्ति नजरयन्ति नापक्षीणयन्ति तथा मासाश्च नापक्षीणयन्ति तथा द्यावोदिवसाश्चयमिन्द्रंनावकर्शय- न्ति नाल्पीभावयन्ति वृद्धस्यचित् प्रवृद्धस्यापि अस्येन्द्रस्य तनूः शरीरं स्तोमेभिरस्मदीयैः स्तोत्रैःउक्थैश्चशस्त्रैश्च शस्यमाना स्तूयमाना सती वर्धतां प्रवृद्धाभवतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८