मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् ८

संहिता

न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।
अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥

पदपाठः

न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् ।
अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चि॒त् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥

सायणभाष्यम्

स्तवान् अस्माभिःस्तूयमानइन्द्रः वीळवे दृढगात्राय यजमानाय ननमते नवशीभवति स्थिराय युद्धेअविचलितायच ननमते शर्धते उत्सहमानाय दस्युजूताय कर्मवर्जितैःप्रेरिताययजमानाय नवशीभवति यद्यपि स्तोतारोबहुगुणाःसन्ति तथापीन्द्रस्तेभ्योदस्युसहितेभ्यो- नवशीभवतीत्यर्थः अपिचऋष्वाः महान्तः गिरयश्चित्पर्वताअपिइन्द्रस्यअज्राः असुगमनाः क्षेपणीयाभवन्ति गंभीरेचिदगाधोपिस्थाने अस्माइन्द्राय गाधमेवस्थानं विषयोभवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८