मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् ९

संहिता

ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न् ।
स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥

पदपाठः

ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् ।
स्थाः । ऊं॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥

सायणभाष्यम्

हेअमत्रिन् अमत्रं बलं तद्वन् हेसुत्पावन् सुतस्यसोमस्यपातरिन्द्र गंभीरेणकेनापिदुरवगाहेन उरुणा विस्तीर्णेन मनसा नोस्मभ्यं इषो- न्नानि वाजान्बलानिच प्रयन्धि प्रयच्छ किंच अक्तोरात्रेः व्युष्टौ विवासे अह्नि परितक्म्यायां रात्रौ हेइन्द्र त्वं ऊती अस्माकंरक्षायै अरि- षण्यन्नहिंसंस्त्वं ऊर्ध्वौद्युक्तः स्थाः ऊषु सुष्ठुतिष्ठैव ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८