मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् १०

संहिता

सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः ।
अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥

पदपाठः

सच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः ।
अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेइन्द्र त्वं नायं कर्मणांस्तुतीनांचनेतारं अभीके संग्रामे अवसेरक्षणाय सचस्व सेवस्व इतोवाअस्मात् सन्निकृष्टाच्चरिषः शत्रोः अमुतो- विप्रकृष्टाच्छत्रोश्च वाशब्दः अनुक्तेनविवक्षितेनसमुच्चयार्थः हेइन्द्र तंस्तोतारं पाहि रक्ष तथा अमाच गृहेच अमेतिगृहनाम अरण्ये काननेच रिषः शत्रोः पाहि तंरक्ष तदनन्तरं सुवीराः शोभनपुत्रावयं शतहिमाः शतसंवत्सारान्मदेम हृष्याम ॥ १० ॥

यातऊतिरितिनवर्चंद्वितीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रांतं—यातेनवेति । पृष्ठ्याभिप्लवषडहयोः द्वितीयेहनिइदंसूक्तं निष्केवल्यनिविद्धानं सूत्रितंच—यातऊतिरवमेतिमध्यंदिनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८