मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २५, ऋक् १

संहिता

या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ ।
ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥

पदपाठः

या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ ।
ताभिः॑ । ऊं॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥

सायणभाष्यम्

हेशुष्मिन् बलवन्निन्द्र तेत्वदीया या ऊतिर्यारक्षा अवमा अधमास्ति यापरमा उत्कृष्टास्ति यामध्यमास्ति ताभिरूतिभिः वृत्रहत्ये युद्धेनोस्मान् अत्यन्तं अवीः पालय किंचहेउग्रउद्गूर्णेन्द्र महांस्त्वं एभिर्भोज्यसाधनैर्वाजैरन्नैश्च नोस्मान्त्संयोजयेतिशेषः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९