मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २५, ऋक् २

संहिता

आभि॒ः स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासी॑ः ॥

पदपाठः

आभिः॑ । स्पृधः॑ । मि॒थ॒तीः । अरि॑षण्यन् । अ॒मित्र॑स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ ।
आभिः॑ । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । विषू॑चीः । आर्या॑य । विशः॑ । अव॑ । ता॒रीः॒ । दासीः॑ ॥

सायणभाष्यम्

हेइन्द्र आभिरस्मदीयाभिः स्तुतिभिः मिथतीः शत्रुसैन्यानिहिंसतीः स्पृधोस्मदीयाः सेमाः अरिषण्यन् अहिंसन् पालयन्नित्यर्थःअमित्र- स्यशत्रोः मन्युं संग्रामादिषुविद्यमानंकोपंव्यथय नाशय अपिच आभिःस्तुतिभिरेव अभियुजोभियोक्त्रीःविषूचीः सर्वतोविद्यमानाःदासीः कर्मणामुपक्षपयित्रीः विश्वाः सर्वाः विशः प्रजाः आर्याय यज्ञादिकर्मकृतेयजमानाय अवतारीः विनाशय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९