मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २५, ऋक् ५

संहिता

न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।
इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥

पदपाठः

न॒हि । त्वा॒ । शूरः॑ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य॑मानः । यु॒योध॑ ।
इन्द्र॑ । नकिः॑ । त्वा॒ । प्रति॑ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥

सायणभाष्यम्

हेइन्द्र त्वा त्वयासह शूरोविक्रान्तजनोनहियुयोध नयुध्यते तथातुरः अन्येषांशत्रूणांहिंसकः अतः त्वयानयुयोध धृष्णुर्धर्षकोनयुयोध मन्यमानः युद्धेक्रुध्यन् योधोभटः त्वा त्वयान युयोध हेइन्द्र एषांशूरादीनांमध्ये कश्चनत्वा तवनकिः प्रत्यस्ति प्रतिनिधिर्नास्ति विश्वा विश्वानि जातानि प्रादुर्भूतानि तानि शूरादीनि त्वं अभ्यसि अभिभवसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९