मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २५, ऋक् ६

संहिता

स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धसः॑ समि॒थे हव॑न्ते ।
वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥

पदपाठः

सः । प॒त्य॒ते॒ । उ॒भयोः॑ । नृ॒म्णम् । अ॒योः । यदि॑ । वे॒धसः॑ । स॒म्ऽइ॒थे । हव॑न्ते ।
वृ॒त्रे । वा॒ । म॒हः । नृ॒ऽवति॑ । क्षये॑ । वा॒ । व्यच॑स्वन्ता । यदि॑ । वि॒त॒न्त॒सैते॒ इति॑ ॥

सायणभाष्यम्

अयोरनयोरुभयोर्मध्ये सजनः नृम्णं धनं प्रत्यते ईष्टे क्योर्मज्ये कईष्टइति एतदुभयमाह यदि यस्यजनस्य् यदीतिनिपातोयस्यार्थेवर्तते समिथे यज्ञेवेधसः कर्मणांविधातारक्रत्विजः हवन्ते इन्द्रंस्तुवन्ति सईष्टइतिसंबन्धः महोमहतिप्रभूते वृत्रेवा निरोधेनिमित्तेवा नृवतिपरि- चारकमनुष्ययुक्तेक्षयेवा गृहनिमित्तेवा व्यचस्वन्तौ यदि यदीयौजनौ तियावित्यर्थेवर्तते तितंतंसैते वियुध्येते तयोर्मध्येइतिसंबन्धः तसेरु- पक्षयकर्मणोविपूर्वाद्धितंतसैतेइतिभवति यद्वाततंसइतिधातुः कंड्वादिषुपठ्यते तस्मादिदंरूपमिति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०