मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २६, ऋक् १

संहिता

श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।
सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽव॒ः पार्ये॒ अह॑न्दाः ॥

पदपाठः

श्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः ।
सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥

सायणभाष्यम्

हेइन्द्र ववृषाणाः सोमैस्त्वांसिंचन्तोवयंस्तोतारः महोमहतोवाजस्यान्नस्य सातौ लाभार्थं त्वा त्वां ह्वयामसि आह्वयामः हेइन्द्र त्वं नोस्माकं तदाह्वानं श्रुधि शृणु यद्यदा विशोजनाः शूरसाताशूरसातौ युद्धे समयन्त संगच्छन्ते तदा पार्ये अन्तिमे अहन्नहनि दिवसे नो- स्मभ्यं उग्रमुद्गूर्णमवोरक्षणं दाः अदाः प्रयच्छ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१