मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २६, ऋक् २

संहिता

त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥

पदपाठः

त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ ।
त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥

सायणभाष्यम्

वाजी हविर्लक्षणान्नवान् वाजिनेयोवाजिन्याःपुत्रोभरद्वाजः हेइन्द्र त्वां गध्यस्य सर्वैः प्राप्यस्य महोमहतोवाजस्यान्नस्य सातौ लाभे- निमित्ते हवते स्तौति अपिच हेइन्द्र सत्पतिं सज्जनानांपालकं तरुत्रं दुर्जनानांतारकं त्वां वृत्रेषूपद्रवेषुनिमित्तेषु भरद्वाजोहवते मुष्टिहा मुष्टिबलेनशत्रूणांहन्ता गोषुनिमित्तभूतासु युध्यन् शत्रुभिःसहयुद्धंकुर्वन् भरद्वाजस्त्वां चष्ठे पश्यति प्रतिभालयते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१