मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २६, ऋक् ३

संहिता

त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।
त्वं शिरो॑ अम॒र्मण॒ः परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥

पदपाठः

त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् ।
त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥

सायणभाष्यम्

हेइन्द्र त्वं अर्कसातौ अन्नलाभार्थं कविं भार्गवमृषिं चोदयः अचोदयः प्रेरय किंच हे इन्द्र त्वं दाशुषे ह्विर्दत्तवतेकुत्साय शुष्णमसुरं वर्क् छेदितवानसि वर्गितिवृणक्तेःछेदनार्थस्य लुङिरूपं तथा त्वं अतिथिग्वाय अतिथोनामभिगंत्रे दिवोदासाय शंस्यं स्तुत्यंसुखंकरिष्यन् अमर्मणः मर्महीनमात्मानं मन्यमानस्यशंबरस्य शिरः शीर्षं पराहन्नवधीः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१