मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २६, ऋक् ४

संहिता

त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् ।
त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥

पदपाठः

त्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।
त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥

सायणभाष्यम्

हेइन्द्र त्वं वृषभसंज्ञकायराज्ञे योधं युद्धसाधनं ऋष्वं महान्तंरथं प्रभरः प्रापयः अपिच युध्यन्तं शत्रुभिःसहयुद्धंकुर्वन्तं दशद्युं दशदिव- सायुध्यतोयस्यगताः तं वृषभमेतदाख्यंराजानमावःयुद्धादपीपलः किंच त्वं वेतसवे एतन्नाम्नेराज्ञे सचा सहायभूतःसन् तुग्रमसुरं हन् हत- वानसि वेतसुर्नामकश्चिदसुरः अत्रतस्मादन्योसावुच्यते यद्वा वेतसवइतितृतीयार्थेचतुर्थी वेतसुनासुरेण सहितं तुग्रं हतवानसि तथाचमं- त्रान्तरंश्रूयते—अहंपितेववेतसूँरभिष्टयेतुग्रंकुत्सायस्मदिभंचरन्धयमिति । हेइन्द्र त्वं गृणन्तं त्वांस्तुवन्तं तुजिमेतदाख्यंराजानं ततोरवर्ध- यः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१