मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २६, ऋक् ५

संहिता

त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ क॒ः प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ ।
अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥

पदपाठः

त्वम् । तत् । उ॒क्थम् । इ॒न्द्र॒ । ब॒र्हणा॑ । क॒रिति॑ कः । प्र । यत् । श॒ता । स॒हस्रा॑ । शू॒र॒ । दर्षि॑ ।
अव॑ । गि॒रेः । दास॑म् । शम्ब॑रम् । ह॒न् । प्र । आ॒वः॒ । दिवः॑ऽदासम् । चि॒त्राभिः॑ । ऊ॒ती ॥

सायणभाष्यम्

हेइन्द्र बर्हणा बर्हणःशत्रूणांहिंसकस्त्वं उक्थं प्रशस्यं तत्कर्म कः अकरोः किंतत्कर्मेति उच्यते हेशूरवीरेन्द्र त्वं शता शतानि सहस्रा सहस्राणिच शंबरस्यानुचरान् भटान्प्रदर्षिविदारितवानसि तथानिगमान्तरे अध्वर्यवोयःशतंशंबरस्येति । तथा त्वं दासं यज्ञादिकर्म- णामुपक्षपयितारं गिरेः पर्वतान्निर्गतंशंबरमसुरं अवहन् अवावधीः तथापिश्रूयते यःशंबरंपर्वतेषु क्षियन्तमिति । किंच चित्राभिर्विचित्रा- दिभिः ऊती ऊतिभीरक्षाभिः दिवोदासंराजानं प्रावः प्रकर्षेणपालयसिस्म ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१