मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २६, ऋक् ६

संहिता

त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् ।
त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥

पदपाठः

त्वम् । श्र॒द्धाभिः॑ । म॒न्द॒सा॒नः । सोमैः॑ । द॒भीत॑ये । चुमु॑रिम् । इ॒न्द्र॒ । सि॒स्व॒प् ।
त्वम् । र॒जिम् । पिठी॑नसे । द॒श॒स्यन् । ष॒ष्टिम् । स॒हस्रा॑ । शच्या॑ । सचा॑ । अ॒ह॒न् ॥

सायणभाष्यम्

हेइन्द्र श्रद्धाभिः श्रद्धापुरःसरमादरातिशयेनानुष्ठितैःकर्मभिः मन्दसानोमोदमानः यच्छ्रद्धयायुक्तंकर्मतत्सारवद्भवति तथाचश्रूयते- यदेवविद्ययाकरोतिश्रद्धयोपनिषदातदेववीर्यवत्तरंभवतीति । सोमैश्चमन्दसानस्त्वं दभीतये एतन्नामकायराजर्षये चुमुरिं एतदाख्य- मसुरं सिष्वप् अस्वापयः अवधीरित्यर्थः किंच हेइन्द्र त्वं पिठीनसे एतन्नामकाय रजिं एतदाख्यांकन्यांवाराज्यंवा दशस्यन् प्रयच्छन् शच्य प्रज्ञया षष्टिं षष्टिसंख्याकानि सहस्रा भटानांसहस्राणि सचा सहयुगपदेवाह्न्नवधीः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२