मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २६, ऋक् ८

संहिता

व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठा॑ः ।
प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ॥

पदपाठः

व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्नऽहू॑तौ । सखा॑यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः॑ ।
प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु॒ । श्रेष्ठः॑ । घ॒ने । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥

सायणभाष्यम्

हेमहिन पूजनीयेन्द्र ते त्वदर्थं सखायःस्तोतारोवयं अस्यांद्युम्नहूतौ अस्मिन्धननिमित्तेस्तोत्रे प्रेष्ठाः अतिशयेनप्रियाः स्याम भवेम प्रातर्दनिः प्रतर्दनोनामराजातस्यपुत्रःक्षत्रश्रीः एतन्नामकोममयाज्योराजा श्रेष्ठोस्तु सर्वेषामुत्कृष्टोभवतु किमर्थं वृत्राणां शत्रूणांघनेव- धायच धनानां वसूनां सनये संभजनायच श्रेष्ठोस्त्वितिसंबन्धः ॥ ८ ॥

किमस्यमदेत्यष्टर्चं चतुर्थंसूक्तं भरद्वाजस्यार्षं अनुक्रान्तंच—किमस्यान्त्याचायमानस्याभ्यावर्तिनोदानस्तुतिः भरद्वाजऋषिः त्रिष्टु- प् छन्दः अंत्यायास्तुदानस्तुतिरूपत्वात् यातेनोच्यतइतिन्यायेनदानमेवदेवता विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२