किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्र॒ः किम॑स्य स॒ख्ये च॑कार ।
रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥
किम् । अ॒स्य॒ । मदे॑ । किम् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति॑ । नूत॑नासः ॥
भरद्वाजऋषिः फलविलंबनासहिष्णुःसन् अनयेन्द्रमाक्षिपति अस्यसोमस्य मदेसति इन्द्रः किंचकार कृतवान् किमु किंच अस्यसो- स्य पीतौ पानेसति किंचकार अस्यसोमस्य सख्ये सखित्वे किंचकार पानात्पूर्वं इन्द्रः सोमेनशवसतीत्यर्थः अस्यसोमस्य निषदि गृहे रणावाये स्तोतारःसंति तेस्तोतारः पुरा पूर्वं हेइन्द्र ते त्वत्तः किंविविद्रे किंलेभिरे नूतनासः नूतनाइदानींतनाः स्तोतारश्च किमुलेभिरे ॥ १ ॥