मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २७, ऋक् ३

संहिता

न॒हि नु ते॑ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म ।
न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते॑ ॥

पदपाठः

न॒हि । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । न । म॒घ॒ऽव॒न् । म॒घ॒व॒त्ऽत्वस्य॑ । वि॒द्म ।
न । राध॑सःऽराधसः । नूत॑नस्य । इन्द्र॑ । नकिः॑ । द॒दृ॒शे॒ । इ॒न्द्रि॒यम् । ते॒ ॥

सायणभाष्यम्

हेमघवन्धनवन्निन्द्र ते त्वदीयस्य समस्य समस्तस्य महिमनोमहिम्नोमहिमानं नहि विद्म वयंनजानीमः नुशब्दःपूरणः तथा मघव- त्त्वस्य त्वदीयस्यधनिकत्त्वस्यच वयं नजानीमः नूतनस्य स्तुत्यस्य राधसोराधसः त्वदीयं सर्वंधनंच नजानीमः सर्वत्रद्वितीयार्थेषष्ठी हेइन्द्र ते त्वदीयं इन्द्रियंसामर्थ्यं नकिर्ददृशे केनापिनद्रुश्यते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३