मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २७, ऋक् ५

संहिता

वधी॒दिन्द्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न् ।
वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥

पदपाठः

वधी॑त् । इन्द्रः॑ । व॒रऽशि॑खस्य । शेषः॑ । अ॒भि॒ऽआ॒व॒र्तिने॑ । चा॒य॒मा॒नाय॑ । शिक्ष॑न् ।
वृ॒चीव॑तः । यत् । ह॒रि॒यू॒पीया॑याम् । हन् । पूर्वे॑ । अर्धे॑ । भि॒यसा॑ । अप॑रः । दर्त् ॥

सायणभाष्यम्

पूर्वोक्तमेवार्थमनयाविवृणोति अयमिन्द्रः चायमानाय चयमानस्यराज्ञःपुत्राय अभ्यावर्तिने एतन्नामकायराज्ञे शिक्षन् ईप्सितानि वसूनि प्रयच्छन् वरशिखस्यासुरस्य शेषः पुत्रान्वधीदवधीदहिंसीत् वरशिखस्यपुत्रान् कथमवधीदित्युच्यते यद्यदा अयमिन्द्रः हरियू- पीयायां हरियूपीयानामकचिन्नदी काचिन्नगरीवा तस्यां पूर्वेअर्धे प्राग्भागेस्थितान् वृचीवतःवृचीवान्नामवरशिखस्यकुलोत्पन्नः पूर्वः तद्गोत्रजान् वरशिखस्यपुत्रान् हन्नवधीत् तदा अपरोपरभागेस्थितोवरशिखस्यश्रेष्ठः पुत्रः भियसा भीत्या दर्त् दीर्णोभूत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३