मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २७, ऋक् ६

संहिता

त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या ।
वृ॒चीव॑न्त॒ः शर॑वे॒ पत्य॑माना॒ः पात्रा॑ भिन्दा॒ना न्य॒र्थान्या॑यन् ॥

पदपाठः

त्रिं॒शत्ऽश॑तम् । व॒र्मिणः॑ । इ॒न्द्र॒ । सा॒कम् । य॒व्याऽव॑त्याम् । पु॒रु॒ऽहू॒त॒ । श्र॒व॒स्या ।
वृ॒चीव॑न्तः । शर॑वे । पत्य॑मानाः । पात्रा॑ । भि॒न्दा॒नाः । नि॒ऽअ॒र्थानि॑ । आ॒य॒न् ॥

सायणभाष्यम्

इदानीमुक्तमेवार्थंविवृणोति हेपुरुहूत बहुभिराहूतेन्द्र श्रवस्या श्रवस्यया श्रवोन्नंयशोवा तद्वांछया युद्धे त्वां जित्वा अन्नंप्राप्नुयाम यशोवाप्राप्नुयामेतिकामयमानाः शरवे हिंसायै त्वां हिंसितुमित्यर्थः पत्यमानाअभिपतन्तोभिगच्छन्तः पात्रा पात्राणियज्ञसाधनानि भिन्दाना भिन्दन्तः वर्मिंणः कवचभृतः त्रिंशच्छतं त्रिंशदधिकशतसंख्याकाः वृचीवन्तोवरशिखस्यपुत्राः साकंयुगपदेवयव्यावत्यां पूर्वो- क्तायां हरियूपीयायां न्यर्थानि अर्थशून्यानि आयन्नगच्छन् विनाशंप्रापुरित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४