मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २७, ऋक् ७

संहिता

यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा ।
स सृञ्ज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥

पदपाठः

यस्य॑ । गावौ॑ । अ॒रु॒षा । सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू । अ॒न्तः । ऊं॒ इति॑ । सु । चर॑तः । रेरि॑हाणा ।
सः । सृञ्ज॑याय । तु॒र्वश॑म् । परा॑ । अ॒दा॒त् । वृ॒चीव॑तः । दै॒व॒ऽवा॒ताय॑ । शिक्ष॑न् ॥

सायणभाष्यम्

अरुषा अरुषौरोचमानौ सुयवस्यू शोभनतृणानीच्छन्तौ रेरिहाणा लेलिहानौ पुनः पुनर्घासमास्वादयन्तौ यद्वा गतिविशेषंकुर्वन्तौ यस्येन्द्रस्यसंबन्धिनौ गावावश्वौ अन्तर्द्यावापृथिव्योर्मध्येन्तरिक्षे चरतोगच्छतः ऊ सु इतीमौपूरणौ सइन्द्रः सृंजयाय एतन्नामकायरा- ज्ञे तुर्वशं राजानं परादात् प्रददौ किंकुर्वन् वृचीवतोवारशिखान् दैववाताय देववातवंशोत्पन्नायात्यावर्तिनेराज्ञे शिक्षन् वशीकुर्वन् तेषांधनानिप्रयच्छन्नितिवा ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४