मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २८, ऋक् १

संहिता

आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।
प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥

पदपाठः

आ । गावः॑ । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ ।
प्र॒जाऽव॑तीः । पु॒रु॒ऽरूपाः॑ । इ॒ह । स्युः॒ । इन्द्रा॑य । पू॒र्वीः । उ॒षसः॑ । दुहा॑नाः ॥

सायणभाष्यम्

गावः आअग्मन् अस्मदीयंगृहंआगच्छन्तु उतापिच भद्रं भजनीयं शुभं अक्रन् कुर्वन्तु तथा गोष्ठे अस्मदीयेगवांस्थाने सीदन्तूपविशन्तु तदनन्तरं अस्मे अस्मासु रणयन्तु रमन्तां अपिच इहास्मिन् गोष्ठे पुरुरूपानानावर्णागावःप्रजावतीः प्रजावत्यः सन्ततिसहिताः स्युर्भवे- युः इन्द्रायेन्द्रार्थं पूर्वीर्बह्वीः उषसोदिवसान् सर्वेषुदिवसेषुइत्यर्थः दुहानाः क्षीरंदोहमानाभवेयुः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५