मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २८, ऋक् ३

संहिता

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।
दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभि॑ः सचते॒ गोप॑तिः स॒ह ॥

पदपाठः

न । ताः । न॒श॒न्ति॒ । न । द॒भा॒ति॒ । तस्क॑रः । न । आ॒सा॒म् । आ॒मि॒त्रः । व्यथिः॑ । आ । द॒ध॒र्ष॒ति॒ ।
दे॒वान् । च॒ । याभिः॑ । यज॑ते । ददा॑ति । च॒ । ज्योक् । इत् । ताभिः॑ । स॒च॒ते॒ । गोऽप॑तिः । स॒ह ॥

सायणभाष्यम्

तागावोननशन्ति अस्मत्सकाशान्ननश्यन्तु किंच तस्करश्चौरोपि नदभाति अस्मदीयागाः नहिंस्यात् तथा आमित्रः अमित्र्स्यशत्रोः संबन्धि व्यथिः शस्त्रं आसांइमागाः नादधषंति नाक्रमतु गोपतिः एवंभूतानांगवांस्वामीयजमानः याभिर्गोभिः देवांश्चेन्द्रादीनुद्दिश्य यजते यजनंकरोति योगाःइन्द्रार्थंददातिचप्रयच्छतिच ताभिस्तादृशीर्गोभिःसह ज्योगित् चिरकालमेवसचते संगच्छतां ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५