मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २८, ऋक् ४

संहिता

न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

पदपाठः

न । ताः । अर्वा॑ । रे॒णुऽक॑काटः । अ॒श्नु॒ते॒ । न । सं॒स्कृ॒त॒ऽत्रम् । उप॑ । य॒न्ति॒ । ताः । अ॒भि ।
उ॒रु॒ऽगा॒यम् । अभ॑यम् । तस्य॑ । ताः । अनु॑ । गावः॑ । मर्त॑स्य । वि । च॒र॒न्ति॒ । यज्व॑नः ॥

सायणभाष्यम्

रेणुककाटः रेणोः पार्थिवस्यरजसउद्भेदकः कटिर्भेदनकर्मा अर्वायुद्धार्थमागतोश्वः तागाः नाश्नुते नप्राप्नुयात् तथा तागावः संस्कृतत्रं विशसनादिसंस्कारं नाभ्युपयन्ति नाभिगच्छन्तु अपिच तागावःयज्वनोयागशीलस्य तस्य मर्तस्य मनुष्यस्य उरुगायं विस्तीर्णगमनं अभयं भयवर्जितप्रदेशं अनूद्दिश्य विचरन्ति विशेषेणगच्छन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५