मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २८, ऋक् ५

संहिता

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गाव॒ः सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।
इ॒मा या गाव॒ः स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥

पदपाठः

गावः॑ । भगः॑ । गावः॑ । इन्द्रः॑ । मे॒ । अ॒च्छा॒न् । गावः॑ । सोम॑स्य । प्र॒थ॒मस्य॑ । भ॒क्षः ।
इ॒माः । याः । गावः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ । इ॒च्छामि॑ । इत् । हृ॒दा । मन॑सा । चि॒त् । इन्द्र॑म् ॥

सायणभाष्यम्

नावएव मह्यं भगोधनं भवन्तु इन्द्रश्च मे मह्यं गावोगाः अच्छान् यच्छतु गावः प्रथमस्य हविषांश्रेष्ठस्यसोमस्य भक्षोभक्षणं भवतु अभिषुतस्यहिसोमस्य गव्येनाज्यादिनासंश्रयणत्वात् हेजनासोजनाः इमाएवंभूतायागावःसन्ति सः ताइत्यर्थः ताएवगावः इन्द्रोभवन्ति दधिघृतादिरूपेणेन्द्रस्याप्यायनत्वात् एवंभूतमिन्द्रं हृदा श्रद्धायुक्तेन मनसा चित् चिदित्यप्यर्थे इच्छामीत् कामयेएव साधनभूताभिर्गो- भिरेवं भूतमिन्द्रंयष्टुमिच्छामीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५