मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २८, ऋक् ६

संहिता

यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् ।
भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥

पदपाठः

यू॒यम् । गा॒वः॒ । मे॒द॒य॒थ॒ । कृ॒शम् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् ।
भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒चः॒ । बृ॒हत् । वः॒ । वयः॑ । उ॒च्य॒ते॒ । स॒भासु॑ ॥

सायणभाष्यम्

हेगावोयूयं मेदयथ आप्यायनंकुरुथेत्यर्थः तथा कृशंचित्क्षीणमपि अश्रीरंचिदमंगलमपि सुप्रतीकं शोभनांगं कृणुथ कुरुथ हेभद्रवाचः कल्याणध्वन्युपेतागावः अस्मदीयंगृहं भद्रं कल्याणंकृणुथ गोभिरुपेतंकुरुथ सभासु यागपरिषत्सु हेगावोयुष्माकं बृहत् महत् वयोन्नं उच्यते समवेतंक्रियते सर्वैर्दीयतइत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५