मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २८, ऋक् ७

संहिता

प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्ती॑ः शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः ।
मा वः॑ स्ते॒न ई॑शत॒ माघशं॑स॒ः परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥

पदपाठः

प्र॒जाऽव॑तीः । सु॒ऽयव॑सम् । रि॒शन्तीः॑ । शु॒द्धाः । अ॒पः । सु॒ऽप्र॒पा॒ने । पिब॑न्तीः ।
मा । वः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । परि॑ । वः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ ॥

सायणभाष्यम्

हेगावोयूयं प्रजावतीः प्रजावत्यः वत्साभिर्युक्ताभवतेतिशेषः सुयवसं शोभनतृणं रिशन्तीः रिशंत्यः भक्षणार्थंहिंसंत्योभवत सुप्रपाणे सुखेनपातव्येतटाकादौ शुद्धाः निर्मलाअपः उदकानि पिबन्तीः पिबंत्यश्चभवत वोयुष्मान् स्तेनः तस्करः माईशत माईशिष्ट ईश्वरोमा- भूत् तथात्पघशंसः व्याघ्रादिः शत्रुः माईशत अपिच वोयुष्मान् रुद्रस्य कालात्मकस्य परमेश्वरस्य हेतिरायुधंच परिवृज्याः परिवृणक्तु परिहरतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५