मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २८, ऋक् ८

संहिता

उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् ।
उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥

पदपाठः

उप॑ । इ॒दम् । उ॒प॒ऽपर्च॑नम् । आ॒सु । गोषु॑ । उप॑ । पृ॒च्य॒ता॒म् ।
उप॑ । ऋ॒ष॒भस्य॑ । रेत॑सि । उप॑ । इ॒न्द्र॒ । तव॑ । वी॒र्ये॑ ॥

सायणभाष्यम्

आसुगोषु इदमुपपर्चनं आप्यायनं उपपृच्यतां संपृच्यतां हेइन्द्र तववीर्ये त्वदीयवीर्यनिमित्ते ऋषभस्य गवांगर्भमादधानस्यवृषभस्य रेतसि इदमुपपर्चनं आप्यायनं गोषुह्याप्यायितासुसतीषु तत्संबन्धिक्षीरादिहविर्द्वारेणेन्द्रः आप्यायितोभवतीत्यर्थः उपेतिपुनर्वचनंपाद- भेदानां पूरणार्थमिति ॥ ८ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे- ऋक्संहिताभाष्येचतुर्थाष्टकेषष्ठोध्यायःसमाप्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५