मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २९, ऋक् २

संहिता

आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥

पदपाठः

आ । यस्मि॑न् । हस्ते॑ । नर्याः॑ । मि॒मि॒क्षुः । आ । रथे॑ । हि॒र॒ण्यये॑ । र॒थे॒ऽस्थाः ।
आ । र॒श्मयः॑ । गभ॑स्त्योः । स्थू॒रयोः॑ । आ । अध्व॑न् । अश्वा॑सः । वृष॑णः । यु॒जा॒नाः ॥

सायणभाष्यम्

यस्मिन्निन्द्रे नर्या नृभ्योहिता रायः आमिमिक्षुः आसिच्यन्ते आपूर्यन्ते व्यत्ययेनकर्मणिकर्तृप्रत्ययः इन्द्रे कुत्रेतिचेत् हस्ते तदीयेबाहौ यद्वैतत् समानाधिकरणमिन्द्रस्यविशेषणं हस्तेहन्तरियस्मिन्निन्द्रेइत्यर्थः उक्तंयास्केन—हस्तोहन्तेःप्राशुर्हननइति । यद्वा ईदृशेयस्मिन्निन्द्रे वर्तमानारायः आमिमिक्षुः आसिंचन्ति आपूरयन्तिस्तोतॄन् यश्चेन्द्रः रथेष्ठाः रथस्थाता तत्स्वभावःसन् हिरण्यये सुवर्णमये रथे आतिष्ठति यद्वा रथेष्ठाः रथेवस्थितारायोधनानि हिरण्मये रथेतिष्ठन् यइन्द्रआसिंचत्यभिवर्षति यस्यच स्थूरयोः स्थूलयोर्विस्तृतयोर्गभस्त्योःबाहुना- मैतत् बाह्वोःरश्मयोभीशवः आसिच्यन्ते आयम्यन्ते यस्यचाश्वासोअश्वाः वृषणः सेक्तारोयुवानः युजानाः रथेयुज्यमानाः अध्वन् अध्व- निमार्गे आमिमिक्षुः आसिंचन्ति आपूरयन्ति आगच्छन्तीत्यर्थः तमिन्द्रंस्तुमइतिशेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः