मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २९, ऋक् ३

संहिता

श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥

पदपाठः

श्रि॒ये । ते॒ । पादा॑ । दुवः॑ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव॑सा । दक्षि॑णऽवान् ।
वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नृ॒तो॒ इति॑ । इ॒षि॒रः । ब॒भू॒थ॒ ॥

सायणभाष्यम्

हेइन्द्र श्रिये ऎश्वर्यार्थं ते त्वदीययोः पादा पादयोः दुवः परिचरणं आमिमिक्षुः आसिंचन्ति समर्पयन्ति भरद्वाजःसमर्पयति व्यत्ययेन- बहुवचनं यद्वा ते तव पादौ श्रिये श्रयितुं सेवितुं दुवः परिचरणमासिंचम्तिअनुतिष्ठन्ति यस्त्वं शवसा बलेन धृष्णुः शत्रूणांधर्षकः वज्री वज्रवान् दक्षिणावान् दक्षिणास्तोतृभ्योदातव्यंधनं तद्वान् हेनृतोनेतरिन्द्र सत्वं सुरभिं प्रशस्तं अत्कं सततगमनशालमात्मीयंरूपं दृशे सर्वेषांदर्शनार्थं वसानः आच्छावयन् स्वर्णं सूर्यइव इषिरोगन्ता एषणीयोवा बभूथ भवसि कमितिपूरकः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः