मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २९, ऋक् ४

संहिता

स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः ।
इन्द्रं॒ नरः॑ स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥

पदपाठः

सः । सोमः॑ । आमि॑श्लऽतमः । सु॒तः । भू॒त् । यस्मि॑न् । प॒क्तिः । प॒च्यते॑ । सन्ति॑ । धा॒नाः ।
इन्द्र॑म् । नरः॑ । स्तु॒वन्तः॑ । ब्र॒ह्म॒ऽका॒राः । उ॒क्था । शंस॑न्तः । दे॒ववा॑तऽतमाः ॥

सायणभाष्यम्

यःसोमोवक्ष्यते ससोमः सुतोभिषुतः सन् आमिश्लतमः आभिमुख्येनमिश्रतमोभूत् इन्द्रेणात्यर्थंसंगच्छ्ते यस्मिन् सोमेभिषुते अति- पक्तिः पक्तव्यः पुरोडाशादिःपच्यते भृष्टयवाधानास्ताश्चसन्तिहविरर्थंसंस्कृताभवन्ति यस्मिँश्च सोमेभिषुते नरोनेतारः ब्रह्मकाराः ब्रह्म- णोन्नस्यहविर्लक्षणस्यकर्तारऋत्विजः इन्द्रं स्तोत्रैः स्तुवन्तः उक्था उक्थानिशस्त्राणिच शंसन्तः उच्चारयन्तः देववात तमाः देवानतिशये- नोपगताभवन्ति ससोमइन्द्रेणसंमिश्रितोभूदित्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः