मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २९, ऋक् ५

संहिता

न ते॒ अन्त॒ः शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।
आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥

पदपाठः

न । ते॒ । अन्तः॑ । शव॑सः । धा॒यि॒ । अ॒स्य । वि । तु । बा॒ब॒धे॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः । यू॒थाऽइ॑व । अ॒प्ऽसु । स॒म्ऽईज॑मानः । ऊ॒ती ॥

सायणभाष्यम्

हेइन्द्र ते तव अस्योक्तगुणस्य शवसोबलस्य अन्तः अवसानं नधायि अत्रकेवलोपि दधातिरवाट् पूर्वार्थोद्रष्टव्यः नावाधायि अस्माभि- र्नाज्ञायीत्यर्थः यद्बलं रोदसीद्यावापृथिव्यौ महित्वा महत्त्वेन तु क्षिप्रं विबाबधे यस्माद्बलात् द्यावापृथिव्यौबिभीतइत्यर्थः ता तद्बलं सूरिः स्तोता तूतुजानस्त्वरितःसन् ऊती ऊत्यातर्पकेणहविषा समीजमानः सम्यग्यजन् आपृणत्यापूरयति तत्रदृष्ठान्तः—यूथेवाप्सुउदकेषुगवां- यूथानीव यथा गोपालःअपःपाययन् अद्भिस्तर्पयति तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः