मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २९, ऋक् ६

संहिता

ए॒वेदिन्द्र॑ः सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥

पदपाठः

ए॒व । इत् । इन्द्रः॑ । सु॒ऽहवः॑ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू॑ती । हि॒रि॒ऽशि॒प्रः । सत्वा॑ ।
ए॒व । हि । जा॒तः । अस॑मातिऽओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू॑न् ॥

सायणभाष्यम्

एव एवंउक्तेनप्रकारेण ऋष्वोमहानिन्द्रः सुहवोस्तु सुखेनाह्वातव्योभवतु इदितिपूरणः हिरिशिप्रः शिप्रेहनूनासिकेवा हरितवर्णेशि- प्रेयस्यतादृशइन्द्रः ऊती ऊत्याआगमनेन अनूती अनूत्याअनागमनेनवा सत्वा गमयिताभवतिधनानां स्वयमागतोनागतोपिस्तोतृभ्योधनं- प्रयच्छतीत्यर्थः एवाहि एवंहि जातः प्रादुर्भूतोयमिन्द्रः असमात्योजाः अप्तमातिअसमानमनुपमंउत्कृष्टतरमोजोबलंयस्यतादृशःसन् पुरु पुरूणिबहूनिच वृत्रा वृत्राण्यावरकाणिरक्षःप्रभृतीनि हनति हिनस्तु तथा दस्यून् उपक्षपयितॄन् शत्रूँश्चनिहन्तु ॥ ६ ॥

भूयइदितिपंचर्चंसप्तमंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं भूयःपंचेत्यनुक्रान्तं अग्निष्टोमेमाध्यंदिनसवनेच्छावाकशस्त्रेएतत्सूक्तंशंसनीयं सूत्रितंच—उदिन्न्वस्यरिच्यतेभूयइति । महाव्रतेपिनिष्केवल्येएतत्सूक्तं तथैवपोपंचमारण्यकेसूत्रितं—भूयइद्वावृधेवीर्यायनृणामुत्वेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः