मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३०, ऋक् १

संहिता

भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि ।
प्र रि॑रिचे दि॒व इन्द्र॑ः पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥

पदपाठः

भूयः॑ । इत् । व॒वृ॒धे॒ । वी॒र्या॑य । एकः॑ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू॑नि ।
प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

सायणभाष्यम्

अयमिन्द्रः भूयइत् बहुतरमेव वावृधे प्रवृद्धोभूत् किमर्थं वीर्याय वीरकर्माणिवृत्रवधादीनि कर्तुं एकोमुख्यः अजुर्योजरयितुमशक्यः सचेन्द्रः वसूनि धनानि दयते स्तोतृभ्योददाति तथा दिवोद्युलोकात् पृथिव्याः भूमेश्च अयमिन्द्रः प्ररिरिचे अतिरिच्यते किंचास्येन्द्रस्य उभेरोदसी द्यावापृथिव्यौ अर्धमित् अर्धमेवप्रति अस्येन्द्रस्यार्धोभागः द्यावापृथिव्योः प्रतिनिधिर्भवतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः