मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३०, ऋक् ४

संहिता

स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् ।
अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥

पदपाठः

स॒त्यम् । इत् । तत् । न । त्वाऽवा॑न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । ज्याया॑न् ।
अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । अव॑ । अ॒सृ॒जः॒ । अ॒पः । अच्छ॑ । स॒मु॒द्रम् ॥

सायणभाष्यम्

हेइन्द्र वक्ष्यमाणं तत् सत्यमित् सत्यमेव नानृतं त्वावान् त्वत्सदृशोन्योदेवोनास्ति त्वत्सदृशोन्योमर्त्योमनुष्योपिनैवविद्यते ज्यायान् अधिकोपिदेवोमनुष्योवानखल्वस्तिइतियद्गीयतेतत्सत्यमेवेत्यर्थःअपिच त्वं अर्णउदकं परिशयानं परिवृत्यशयानं अहिं मेघं अहन् अवधीः हत्वाच समुद्रमन्तरिक्षंजलधिंवाच्छाभिमुख्येन अपउदकानि अवासृजः अवाङ्मुखतयाविसृष्टवानसीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः