मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३०, ऋक् ५

संहिता

त्वम॒पो वि दुरो॒ विषू॑ची॒रिन्द्र॑ दृ॒ळ्हम॑रुज॒ः पर्व॑तस्य ।
राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नय॒न्द्यामु॒षास॑म् ॥

पदपाठः

त्वम् । अ॒पः । वि । दुरः॑ । विषू॑चीः । इन्द्र॑ । दृ॒ळ्हम् । अ॒रु॒जः॒ । पर्व॑तस्य ।
राजा॑ । अ॒भ॒वः॒ । जग॑तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् ॥

सायणभाष्यम्

हेइन्द्र त्वं दुरः वृत्रेणावृताअपः विषूचीः विविधमंचंत्यः यथा सर्वतः प्रसृताभवन्ति तथा व्यसृजः यतस्त्वं पर्वतस्य पर्ववतोमेघस्य दृह्ळं दृढं अपांबन्धकप्रदेशं अरुजः अभांक्षीः अपिच त्वं जगतःसंबन्धिनीनांचर्षणीनांप्रजानां राजा भवः अधिपतिर्भवसि किंकुर्वन् सूर्यं द्यां द्युलोकं उषसंच तमसावृतमेतन्त्रितयं साकं युगपदेव जनयन् प्रादुर्भावयन् प्रकाशयन्नित्यर्थः ॥ ५ ॥

अभूरेकइतिपंचर्चमष्टमंसूक्तं भरद्वाजस्यसुहोत्रस्यार्षं उपांत्याशक्वरी शिष्टाश्चतस्रस्त्रिष्टुभः इन्द्रोदेवता अनुक्रम्यतेव—अभूरेकः सुहोत्र- स्तुचतुर्थीशक्वरीति । महाव्रतस्यनिष्केवल्येइदमादीन्यष्टसूक्तानिशंसनीयानि तथापंचमाण्यकं—अभूरेकोरयिपतेरयीणामित्यष्टौसूक्तानी- ति । पृष्ठ्यषस्यष्ठेहनिनिष्केवल्येइदंसूक्तंनिविद्धानं सूत्रितंच—एन्द्रयाह्युपनः प्रघान्वस्याभूरेकइतिनिष्केवस्यमिति । विश्वजितिमाध्यं- दिनेच्छावाकशस्त्रेसामसूक्ताख्यमेतच्छंसनीयं सूत्रितंच—अभूरेकोरयिपतेरयीणामितिसामसूक्तानि ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः