मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३१, ऋक् ३

संहिता

त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।
दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥

पदपाठः

त्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गोऽइ॑ष्टौ ।
दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥

सायणभाष्यम्

हेइन्द्र त्वं कुत्सेनसह अशुषं शोषयितुमशक्यं प्रबलं शुष्णं सर्वस्यशोषकमेतत्संज्ञमसुरं अभियुध्य अभ्ययुध्यः कुत्सस्यसाहाय्यार्थं तेना- सुरेणसहयुद्धंकृतवानसीत्यर्थः तथागविष्टौ गावोबाणाइष्यन्तिगच्छंतियत्रेतिगविष्टिःसंग्रामः तस्मिन् कुयवमेतत्संज्ञमसुरंच दश अदशः हिंसितवानसि दंशदशनेइत्येतस्माच्छान्दसेलोटिरूपं अध अपिच प्रपित्वे प्रपतनेयुद्धे सूर्यस्यचक्रं रथावयवभूतं मुषयः अमुष्णाः तदापभृ- तिसूर्यस्यरतएकचक्रोभूत् तथाचाम्रातं—सप्तयुंजन्तिरथमेकचक्रमिति । एतशाख्यस्यऋषेःसूर्येणसहयुद्धे तत्साहाय्यार्थंआगतइन्द्रःसूर्यस्य- चक्रमपहृतवानित्याख्यातं सूरश्चक्रंप्रवृहज्जात ओजसेतिचनिगमान्तरम् । अपिचरपांसिपापकारीणिरक्षःप्रभृतीनि अविवेः अस्माल्लोकाद- गमयः अवधीरित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः