मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३१, ऋक् ४

संहिता

त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्यो॑ः ।
अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥

पदपाठः

त्वम् । श॒तानि॑ । अव॑ । शम्ब॑रस्य । पुरः॑ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि॑ । दस्योः॑ ।
अशि॑क्षः । यत्र॑ । शच्या॑ । श॒ची॒ऽवः॒ । दिवः॑ऽदासाय । सु॒न्व॒ते । सु॒त॒ऽक्रे॒ । भ॒रत्ऽवा॑जाय । गृ॒ण॒ते । वसू॑नि ॥

सायणभाष्यम्

हेइन्द्र त्वं शतानि शतसंख्यानि दस्योरुपक्षपयितुरसुरस्य शंबरस्य एतत्संज्ञस्य पुरः पुरीः अप्रतीनि लिंगव्यत्ययः केनाप्यप्रतिगताः अवजघंथ अवाहन् हेशचीवः प्रज्ञावन् हेसुतक्रे अभिषुतेनसोमेनक्रीतेन्द्र यत्र यस्मिन्काले सुन्वते सोमाभिषवंकुर्वते दिवोदासाय शच्या प्रज्ञाया अशिक्षोधनानिप्रादाः गृणते स्तुवते भरद्वाजायच वसूनिप्रादाः तस्मिन्काले शांबरीः पुरोवजघंथेत्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः