मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३२, ऋक् २

संहिता

स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः ।
स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दान॑म् ॥

पदपाठः

सः । मा॒तरा॑ । सूर्ये॑ण । क॒वी॒नाम् । अवा॑सयत् । रु॒जत् । अद्रि॑म् । गृ॒णा॒नः ।
सु॒ऽआ॒धीभिः॑ । ऋक्व॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया॑णाम् । अ॒सृ॒ज॒त् । नि॒ऽदान॑म् ॥

सायणभाष्यम्

सइन्द्रः मातरा मातरौ दिवंचपृथिवींच कवीनां क्रान्तदर्शिनामंगिरसामर्थाय सूर्येण अवासयत् प्राकाशयत् किंकुर्वन् अद्रिं गवामदर्श- नाय बलेनस्थापितंपर्वतं रुजद्भंजन् यद्वा कवीनामंगिरसामितितृतीयार्थेषष्ठी अंगिरोभिर्गृणानःस्तूयमानइतिसंबन्धः अपिच स्वाधीभिः शोभनध्यानैरृक्वभिःस्तोतृभिः अंगिरोभिर्वावशानःपुनःपुनःकाम्य्दमानःसन् उस्रियाणां बलस्यभृत्यैःपणिभिरपहृतानांगवां निदानं बंधनं उदसृजत् अमोचयत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः