मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३२, ऋक् ३

संहिता

स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय ।
पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभि॑ः क॒विः सन् ॥

पदपाठः

सः । वह्नि॑ऽभिः । ऋक्व॑ऽभिः । गोषु॑ । शश्व॑त् । मि॒तज्ञु॑ऽभिः । पु॒रु॒ऽकृत्वा॑ । जि॒गा॒य॒ ।
पुरः॑ । पु॒रः॒ऽहा । सखि॑ऽभिः । स॒खि॒ऽयन् । दृ॒ळ्हाः । रु॒रो॒ज॒ । क॒विऽभिः॑ । क॒विः । सन् ॥

सायणभाष्यम्

पुरुकृत्वा बहुकर्मकृत् सइन्द्रः वह्रिभिः ह्विषांवोढृभिः ऋक्वभिः सोतृभिः शश्वत् सर्वदा मितज्ञुभिः संकुचितजानुभिः अंगिरोभिःसह गोषुनिमित्तभूतेषु जिगाय असुरान् जितवान् जित्वाच पुरोहा पुराणांहन्ता सइन्द्रः सखिभिः समानख्यानैः कविभिः क्रान्तप्रज्ञैरंगिरोभिः सह सखीयन् सखित्वमात्मनइच्छन् कविःसन् स्वयमपिक्रान्तप्रज्ञोभवन् दृह्ळा स्थिरा पुरः आसुरीःपुरीरुरोजबभंज ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः