मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३२, ऋक् ४

संहिता

स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑ः ।
पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥

पदपाठः

सः । नी॒व्या॑भिः । ज॒रि॒तार॑म् । अच्छ॑ । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।
पु॒रु॒ऽवीरा॑भिः । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । आ । गि॒र्व॒णः॒ । सु॒वि॒ताय॑ । प्र । या॒हि॒ ॥

सायणभाष्यम्

हेवृषभ कामानांवर्षक हेगिर्वणः गिरास्तुत्यासंभजनीयेन्द्र सत्वं महोमहद्भिः वाजेभिर्वाजैरन्नैः महद्भिःशुष्मैर्बलैश्चसह क्षितीनां प्रजा- नांमध्ये जरितारं स्तोतारं अच्छाभिमुख्येन नीव्याभिः नव्याभिर्नवतराभिः पुरुवीराभिः पुरूणां बहूनांवीरयित्रीभिर्वडवाभिः आप्रयाहि आगच्छ किमर्थं सुविताय शोभनाय सुखप्राप्त्यर्थमित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः