मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३२, ऋक् ५

संहिता

स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इन्द्रो॑ दक्षिण॒तस्तु॑रा॒षाट् ।
इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ॥

पदपाठः

सः । सर्गे॑ण । शव॑सा । त॒क्तः । अत्यैः॑ । अ॒पः । इन्द्रः॑ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् ।
इ॒त्था । सृ॒जा॒नाः । अन॑पऽवृत् । अर्थ॑म् । दि॒वेऽदि॑वे । वि॒वि॒षुः॒ । अ॒प्र॒ऽमृ॒ष्यम् ॥

सायणभाष्यम्

तुराषाट् तुराणांहिसकानांसोढाअभिभविता सइन्द्रः सर्गेण सर्गेण सर्वदोद्युक्तेन शवसा बलेन अत्यैरश्वैः सततगामिभिस्तेजोभिर्वा तक्तः संगतःसन् दक्षिणतः दक्षिणतः दक्षिणायने अपउदकानि विसृजतीतिशेषः इत्था इत्थमनेनप्रकारेणसृजानाः सृज्यमानास्ताआपः अर्थं गंतव्यं अप्रमृष्यमन्यैरक्षोभ्यं समुद्रं दिवेदिवे प्रतिदिनं अनपावृत् अपावर्तनंपुनरागमनंयथानभवतितथाविविषुःव्याप्नुवन्ति अर्तेस्थन्- प्रत्ययान्तस्यरूपमर्थमिति ॥ ५ ॥

यओजिष्ठइतिपंचर्चंदशमंसूक्तं शुनहोत्रस्यार्षंत्रैष्टुभमैन्द्रं अनुक्रम्यतेच—यओजिष्ठः शुनहोत्रस्त्विति । महाव्रतेपिनिष्केवल्यउक्तोविनि- योगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः