स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भू॑ः ।
स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥
सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक॑वाभिः । ऊ॒ती । सखा॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धे । भूः॒ ।
स्वः॑ऽसाता । यत् । ह्वया॑मसि । त्वा॒ । युध्य॑न्तः । ने॒मऽधि॑ता । पृ॒त्ऽसु । शू॒र॒ ॥
हेइन्द्र सतादृशस्त्वं अकवाभिरकुत्सिताभिः ऊती ऊतिभिः रक्षाभिः नोस्माकं वृधे वर्धनाय अविता रक्षिताभूर्भव तथा विशायुः सर्व- तोगन्तात्वं अस्माकं सखाचभव नेमधिता नेमशब्दोर्धवाची उक्तंचःवोनेमइत्यर्धस्येति नेमे अर्धाः कतिपयाःपुरुषाः धीयन्तेऎष्वितिने- मधितयःसंग्रामाः तादृशेषुपृत्सुपृतनासुसंग्रामेषु युध्यन्तोयुद्धंकुर्वन्तोवयं स्वर्षाता स्वः सुष्ठु अरणीयंधनंतस्यसंभजनार्थे हेशूर त्वां यद्यदा- ह्वयामसि आह्वयामः तदानीं त्वं अवेतासखाचभवेत्यर्थः ॥ ४ ॥