मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३४, ऋक् १

संहिता

सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः ।
पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥

पदपाठः

सम् । च॒ । त्वे इति॑ । ज॒ग्मुः । गिरः॑ । इ॒न्द्र॒ । पू॒र्वीः । वि । च॒ । त्वत् । य॒न्ति॒ । वि॒ऽभ्वः॑ । म॒नी॒षाः ।
पु॒रा । नू॒नम् । च॒ । स्तु॒तयः॑ । ऋषी॑णाम् । प॒स्पृ॒ध्रे । इन्द्रे॑ । अधि॑ । उ॒क्थ॒ऽअ॒र्का ॥

सायणभाष्यम्

हेइन्द्र त्वे त्वयि पूर्वीर्बत्द्मोगिरः स्तुतयश्च संजग्मुः संगच्छन्तेत्वत् त्तत्वः विभ्वोविभवोविस्तृताःमनीषाः स्तोतॄणांमतयश्च वियन्ति विविधंनिर्गच्छंति शेषःपरोक्षकृतः पुरा पूर्वस्मिन्काले नूनं अद्यच ऋषीणां अतीन्द्रियार्थदर्शिनांभरद्वाजादीनांस्तुतयः स्तोत्राणि इन्द्रे अधि अधिकंपस्पृध्रे अस्पर्धन्त अहमहमिकयाइन्द्रस्यस्तवनेत्वरिताबभूवुरित्यर्थः तथा उक्थार्का उक्थंशस्त्रंतद्रूपाण्यर्काणिअर्चनसाधना- निस्तोत्राणिच पस्पृध्रे अस्पर्धन्त ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः