मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३४, ऋक् २

संहिता

पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः ।
रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥

पदपाठः

पु॒रु॒ऽहू॒तः । यः । पु॒रु॒ऽगू॒र्तः । ऋभ्वा॑ । एकः॑ । पु॒रु॒ऽप्र॒श॒स्तः । अस्ति॑ । य॒ज्ञैः ।
रथः॑ । न । म॒हे । शव॑से । यु॒जा॒नः । अ॒स्माभिः॑ । इन्द्रः॑ । अ॒नु॒ऽमाद्यः॑ । भू॒त् ॥

सायणभाष्यम्

पुरुहूतः बहुभिराहूतः पुरुगूर्तःबहुभिरुद्यमितः ऋभ्वा महान् एकः प्रधानभूतः एवंगुणविशिष्टोयइन्द्रः यज्ञैः यष्टृभिःपुरुषैः यजमा- नसाधनैःस्तोत्रैर्वा पुरुप्रशस्तोस्ति बहुधाप्रशस्तस्तुतोभवति सइन्द्रः रथोन रथइव महे महते शवसे बलायतदर्थं युजानोस्म त्स्तुतिभिः युज्यमानःसन् अस्माभिःस्तोतृभिः अनुमाद्योभूत् सर्वदास्तुत्योभवत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः