मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३४, ऋक् ३

संहिता

न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः ।
यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥

पदपाठः

न । यम् । हिंस॑न्ति । धी॒तयः॑ । न । वाणीः॑ । इन्द्र॑म् । नक्ष॑न्ति । इत् । अ॒भि । व॒र्धय॑न्तीः ।
यदि॑ । स्तो॒तारः॑ । श॒तम् । यत् । स॒हस्र॑म् । गृ॒णन्ति॑ । गिर्व॑णसम् । शम् । तत् । अ॒स्मै॒ ॥

सायणभाष्यम्

यंइन्द्रं धीतयः कर्माणि परिचरणानि नहिंसन्ति नबाधन्ते वाणीर्वाण्यः स्तुतयश्चयन्नबाधन्ते दातुमसमर्थःपुरुषः अन्यकृतैःपरिचरणैः स्तुतिभिश्च भृशंखिद्यते अस्यचेन्द्रस्य बहुधनत्वाद्दातृत्वाच्च तस्मिन्प्रयुज्यमानानिपरिचरणानिस्तोत्राणिच बाधहेतवोनाभूवन्नित्यर्थः किं- तर्हीत्यतआह तमिन्द्रं वर्धयन्तीः वर्धयंत्यः अभिनक्षन्तिइत् अभिगच्छन्तिएव अपिच गिर्वणसंगिरांसंभक्तारमिन्द्रं शतं शतसंख्याकाःस्तो- तारोयदि गृणन्ति स्तुवन्ति यत् यदिच सहस्रं सहस्रसंख्याकाःस्तोतारः स्तुवन्ति तत्सर्वंस्तोत्रं अस्माइन्द्राय शं सुखकरंभवति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः