मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३५, ऋक् १

संहिता

क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः ।
क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ॥

पदपाठः

क॒दा । भु॒व॒न् । रथ॑ऽक्षयाणि । ब्रह्म॑ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒ऽपो॒ष्य॑म् । दाः॒ ।
क॒दा । स्तोम॑म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः॑ । क॒र॒सि॒ । वाज॑ऽरत्नाः ॥

सायणभाष्यम्

हेइन्द्र ब्रह्मणि ब्रह्माणि स्तोत्राण्यस्मदीयानि रथक्षयाणि रथनिवासानि कदाकस्मिन् काले भुवन् भवेयुः रथेवस्थितं त्वां कदाप्राप्नु- वन्तीत्यर्थः कदा कस्मिन् काले स्तोत्रे स्तुवते मह्यं सहस्रपोष्यं सहस्र संख्याकपुरुषपोषकं गोसमूहं पुत्रं वादाः दद्याः कदाच अस्यमम- स्तोतुः स्तोमं स्तोत्रं राया धनेन वासयः धियः कर्माणिचाग्निहोत्रादीनि वाजरत्नाः वाजैरन्नैः रमणीयाः कदाकस्मिन् काले करसि कुर्याः एवंस्तोता फलस्यविलंबमसहमानः इन्द्रमनयापृष्टवान् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः